वेदमन्त्रपाठ
पुरुष सूक्त (शुक्ल यजुर्वेद) हरिः ॐ।। सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्। सभूमिं सर्व्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम्।।१ पुरुषऽएवेदं सर्व्वंय्यद्भूतंय्यच्चभाव्यम्। उतामृतत्वस्येशानोयदन्नेनातिरोहति।।२ एतावानस्यमहिमातोज्ज्यायाँश्चपूरुषः पादोस्यव्विश्वाभूतानित्रिपादस्यामृतन्दिवि।।३ त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः। ततोव्विष्ष्वङ्व्यक्रामत्त्साशनानशनेऽअभि।।४ ततोव्विराडजायतव्विराजोऽअधिपूरुषः। सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुरः।।५ तस्माद्यज्ञात्सर्व्वहुतःसम्भृतम्पृषदाज्यम्। पशूँस्ताँश्चक्रेव्वायव्यानारण्याग्ग्राम्याश्चये।।६ तस्माद्यज्ञात्सर्व्वहुतऽॠचः सामानिजज्ञिरे। छन्दां सिजज्ञिरेतस्माद्यजुस्तस्मादजायत।।७ तस्मादश्वाऽअजायन्तयेकेचोभयादतः। गावोहजज्ञिरेतस्मात्तसमाज्जाताऽअजावयः।।८ तंय्यज्ञम्बर्हिषिप्प्रौक्षन्न्पुरुषञ्जातमग्ग्रतः। तेनदेवाऽअयजन्तसाद्ध्या ॠषयश्चये।।९ यत्परुषंव्यदधुःकतिधाव्यकल्पयन् । मुखङ्किमस्यासीत्किम्बाहूकिमूरूपादाऽउच्च्येते।।१० ब्राह्मणोस्यमुखमासीद्बाहूराजन्यः कृतः। ऊरूतदस्ययद्वैश्यःपद्भ्यां शूद्रोऽअजायत।।११ चन्द्रमामनसोजातश्चक्षोःसूर्योऽअजायत। श्श्रोत्राद्व...